top of page

ऋग्वेदः मण्डलम् ०९ | Rigveda Mandalam 9

ऋग्वेदः मण्डलं ९ 

स्वादि॑ष्ठया॒ मदि॑ष्ठया॒ पव॑स्व सोम॒ धार॑या ।
इन्द्रा॑य॒ पात॑वे सु॒तः ॥ ९.००१.०१
र॒क्षो॒हा वि॒श्वच॑र्षणिर॒भि योनि॒मयो॑हतम् ।
द्रुणा॑ स॒धस्थ॒मास॑दत् ॥ ९.००१.०२
व॒रि॒वो॒धात॑मो भव॒ मंहि॑ष्ठो वृत्र॒हन्त॑मः ।
पर्षि॒ राधो॑ म॒घोना॑म् ॥ ९.००१.०३
अ॒भ्य॑र्ष म॒हानां॑ दे॒वानां॑ वी॒तिमन्ध॑सा…
bottom of page